वांछित मन्त्र चुनें

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑: ॥

अंग्रेज़ी लिप्यंतरण

ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṁsi | ud vṛtrahan vājināṁ vājināny ud rathānāṁ jayatāṁ yantu ghoṣāḥ ||

पद पाठ

उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि । उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥ १०.१०३.१०

ऋग्वेद » मण्डल:10» सूक्त:103» मन्त्र:10 | अष्टक:8» अध्याय:5» वर्ग:23» मन्त्र:4 | मण्डल:10» अनुवाक:9» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मघवन्) हे सम्पत्तिसम्पन्न राजन् ! (आयुधानि) शस्त्रों को (उत्-हर्षय) उद्दीप्त कर तीक्ष्ण कर (मामकानाम्) मेरे (सत्वनाम्) बलवाले सैनिकों के (मनांसि) मनों को (उत्) उत्साहित कर (वाजिनाम्) घोड़ों के तथा घोड़ेवाले सवारों के (वाजिनानि) बलों को (उत्) बढ़ा-उन्नत कर (जयताम्) जीतते हुए (रथानाम्) यानों का (घोषाः) घोष-शब्द (उत्-यन्तु) ऊपर उठे, गूँजे ॥१०॥
भावार्थभाषाः - संग्राम के लिये शासक को चाहिये कि वह शस्त्रों को तीक्ष्ण रखे-तीक्ष्ण बनाये और बलवाले सैनिकों के मन को उभारे, घोड़ों तथा घोड़ेवाले सवारों के बल को पौष्टिक भोजन तथा युद्धशिक्षा देकर बढ़ावे, रथयानों के घोष चलने सम्बन्धी तथा अस्त्र फेंकने सम्बन्धी घोषशब्द आकाश में गूँजें ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मघवन्) हे सम्पत्तिसम्पन्न राजन् ! (आयुधानि-उत्-हर्षय) शस्त्राणि खलूद्दीपय (मामकानां-सत्वनां मनांसि-उत्) मदीयानां बलवतां सैनिकानां मनांसि खलूद्वर्धय-उत्साहय (वृत्रहन्) हे पापशत्रुनाशक राजन् ! (वाजिनां-वाजिनानि-उत्) अश्वानामश्ववतां वा वीर्याणि “इन्द्रियं वै वीर्यं वाजिनम्” [ऐत० १।१३] उद्वर्धय (जयतां रथानां घोषाः) जयं कुर्वतां रथानां घोषाः (उत्-यन्तु) उपरि गच्छन्तु ॥१०॥